अथर्ववेदीया प्रश्नोपनिषद्
यश्चासौ चन्द्रमा मूर्तिः अन्नम् अमूर्तिश्च प्राणः अत्ता आदित्यः तदेतदेकं मिथुनं सर्वं कथं प्रजाः करिष्यत इति, उच्यते —
संवत्सरो वै प्रजापतिः तस्यायने दक्षिणं चोत्तरं च ।
तद्ये ह वै तदिष्टापूर्ते कृतमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते ।
त एव पुनरावर्तन्ते तस्मादेत ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते ।
एष ह वै रयिः यः पितृयाणः ॥९॥
तदेव कालः संवत्सरो वै प्रजापतिः, तन्निर्वर्त्यत्वात् संवत्सरस्य । चन्द्रादित्यनिर्वर्त्य-तिथि-अहोरात्रसमुदायो हि संवत्सरः तदनन्यत्वात् रयिप्राण-एतन्मिथुनात्मक एवेति उच्यते । तत्कथम् ? तस्य संवत्सरस्य प्रजापतेः अयने मार्गौ द्वौ दक्षिणं च उत्तरं च । प्रसिद्धे ह्ययने षण्मासलक्षणे, याभ्यां दक्षिणेन उत्तरेण च याति सविता केवलकर्मिणां ज्ञानसंयुक्तकर्मवतां च लोकान्विदधत् । कथम् ? तत् तत्र च ब्राह्मणादिषु ये ह वै ऋषयः तदुपासत इति । क्रियाविशेषणो द्वितीयस्तच्छब्दः । इष्टं च पूर्तं च इष्टापूर्ते इत्यादि कृतमेव उपासते न अकृतं नित्यम् , ते चान्द्रमसमेव चन्द्रमसि भवं प्रजापतेः मिथुनात्मकस्य अशं रयिम् अन्नभूतं लोकम् अभिजयन्ते कृतरूपत्वाच्चान्द्रमसस्य । ते एव च कृतक्षयात् पुनरावर्तन्ते इमं लोकं हीनतरं वा विशन्तीति हि उक्तम् । यस्मादेवं, प्रजापतिम् अन्नात्मकं फलत्वेन अभिनिर्वर्तयन्ति चन्द्रम् इष्टापूर्तकर्मणा प्रजाकामाः प्रजार्थिनः एते ऋषयः स्वर्गद्रष्टारः गृहस्थाः, तस्मात् स्वकृतमेव दक्षिणं दक्षिणायनोपलक्षितं चन्द्रं प्रतिपद्यन्ते । एष ह वै रयिः अन्नम् , यः पितृयाणः पितृयाणोपलक्षितश्चन्द्रः ॥९॥

© 2023 KKP APP. All rights reserved | Design by SMDS