भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः ।
मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ २५ ॥

यस्तु अनेवंभूतः यस्य आत्मनः ब्रह्म च क्षत्रं च ब्रह्मक्षत्रे सर्वधर्मविधारके अपि सर्वप्राणभूते उभे ओदनः अशनं भवतः स्याताम्, सर्वहरोऽपि मृत्युः यस्य उपसेचनमिव ओदनस्य, अशनत्वेऽपि अपर्याप्तः, तं प्राकृतबुद्धिः यथोक्तसाधन-अनभियुक्तः सन् कः इत्था इत्थम् एवं यथोक्तसाधनवान् इव इत्यर्थः, वेद विजानाति यत्र सः आत्मा इति ॥२५॥

इति श्रीमच्छङ्करभगवतः कृतौ काठकोपनिषद्भाष्ये द्वितीया वल्ली

© 2023 KKP APP. All rights reserved | Design by SMDS