अथ कृष्णयजुर्वेदीया काठकोपनिषत्
वैश्वानरः प्रविशति अतिथिर्ब्राह्मणो गृहान् ।
तस्यैतां शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥ ७ ॥
स एवमुक्तः पिता आत्मनः सत्यतायै प्रेषयामास । स च यमभवनं गत्वा तिस्रो रात्रीः उवास यमे प्रोषिते । प्रोष्यागतं यमम् अमात्या भार्या वा ऊचुः बोधयन्तः — वैश्वानरः अग्निरेव साक्षात् प्रविशति अतिथिः सन् ब्राह्मणः गृहान् दहन्निव । तस्य दाहं शमयन्त इव अग्नेः एतां पाद्य-आसनादि-दानलक्षणां शान्तिं कुर्वन्ति सन्तः अतिथेः यतः, अतः हर आहर हे वैवस्वत, उदकं नचिकेतसे पाद्यार्थम् ॥७॥