अथ कृष्णयजुर्वेदीया काठकोपनिषत्
नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ ।
यां त्वमापः सत्यधृतिर्बतासि त्वादृङ् नो भूयान्नचिकेतः प्रष्टा ॥ ९ ॥
अतः अनन्यप्रोक्ते आत्मनि उत्पन्ना या इयम् आगमप्रभवा मतिः, न एषा तर्केण स्वबुद्ध्यभ्यूहमात्रेण आपनेया न प्रापणीया इत्यर्थः ; न अपनेतव्या वा ; नोपहन्तव्या । तार्किको हि अनागमज्ञः स्वबुद्धिपरिकल्पितं यत्किञ्चिदेव कल्पयति । अत एव च या इयम् आगमप्रभूता मतिः अन्येनैव आगमाभिज्ञेन आचार्येण एव तार्किकात् प्रोक्ता सती सुज्ञानाय भवति हे प्रेष्ठ प्रियतम । का पुनः सा तर्कागम्या मतिः इति, उच्यते — यां त्वं मतिं मद्वरप्रदानेन आपः प्राप्तवानसि । सत्या अवितथविषया धृतिः यस्य तव स त्वं सत्यधृतिः । बतासि इत्यनुकम्पयन् आह मृत्युः नचिकेतसं वक्ष्यमाणविज्ञानस्तुतये । त्वादृक् त्वत्तुल्यः नः अस्मभ्यं भूयात् भवतात् । भवतु अन्यः पुत्रः शिष्यो वा प्रष्टा । कीदृक् ? यादृक् त्वम् हे नचिकेतः प्रष्टा ॥९॥

© 2023 KKP APP. All rights reserved | Design by SMDS