भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ २३ ॥

यद्यपि दुर्विज्ञेयोऽयमात्मा तथापि उपायेन सुविज्ञेय एव इत्याह — ना अयमात्मा प्रवचनेन अनेकवेदस्वीकरणेन लभ्यः ज्ञेयः ; नापि मेधया ग्रन्थार्थधारणशक्त्या; न बहुना श्रुतेन न बाहुश्रुत्येन केवलेन । केन तर्हि लभ्यः इति, उच्यते — यमेव स्वम् आत्मानम् एष साधको वृणुते प्रार्थयते, तेनैव आत्मना वरित्रा स्वयम् आत्मा लभ्यः ज्ञायत इत्येतत् । निष्कामश्च आत्मानमेव प्रार्थयते । आत्मना एव आत्मा लभ्यत इत्यर्थः । कथं लभ्यत इति, उच्यते — तस्यात्मकामस्य एष आत्मा विवृणुते प्रकाशयति पारमार्थिकीं स्वां तनूं स्वकीयं याथात्म्यम् इत्यर्थः ॥२३॥

© 2023 KKP APP. All rights reserved | Design by SMDS