भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् ।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ १८ ॥

अन्यत्र धर्मादित्यादिना पृष्टस्य आत्मनः अशेषविशेषरहितस्य आलम्बनत्वेन प्रतीकत्वेन च ओम्- कारो निर्दिष्टः अपरस्य च ब्रह्मणो मन्दमध्यमप्रतिपत्तॄन् प्रति । अथेदानीं तस्य ओङ्कारालम्बनस्य आत्मनः साक्षात्स्वरूपनिर्दिधारयिषया इदमुच्यते ॥

न जायते नोत्पद्यते म्रियते वा न म्रियते च उत्पत्तिमतः वस्तुनः अनित्यस्य अनेकाः विक्रियाः, तासाम् आद्यन्ते जन्मविनाशलक्षणे विक्रिये इह आत्मनि प्रतिषिध्येते, प्रथमं सर्वविक्रियाप्रतिषेधार्थं न जायते म्रियते वा इति । विपश्चित् मेधावी अपरिलुप्तचैतन्यस्वभावत्वात् । किञ्च, नायमात्मा कुतश्चित् कारणान्तरात् बभूव न प्रभूतः । अस्माच्च आत्मनो न बभूव कश्चिदर्थान्तरभूतः । अतः अयमात्मा अजः नित्यः शाश्वतः अपक्षयविवर्जितः । यो हि अशाश्वतः, सः अपक्षीयते ; अयं तु शाश्वतः अत एव पुराणः पुरापि नव एव इति । यो हि अवयवोपचयद्वारेण अभिनिर्वर्त्यते, स इदानीं नवः, यथा कुड्यादिः; तद्विपरीतस्तु आत्मा पुराणो वृद्धिविवर्जितः इत्यर्थः । यत एवम्, अतः न हन्यते न हिंस्यते हन्यमाने शस्त्रादिभिः शरीरे; तत्स्थोऽपि आकाशवदेव ॥१८॥

© 2023 KKP APP. All rights reserved | Design by SMDS