अथ कृष्णयजुर्वेदीया काठकोपनिषत्
यस्मादात्मनः इन्द्रियाणां पृथग्भावः उक्तः नासौ बहिरधिगन्तव्यः यस्मात् प्रत्यगात्मा स सर्वस्य ; तत्कथमिति, उच्यते —
इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् ।
सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ॥७॥
इन्द्रियेभ्यः परं मन इत्यादि । अर्थानाम् इह इन्द्रियसमानजातीयत्वात् इन्द्रियग्रहणेनैव ग्रहणम् । पूर्ववदन्यत् । सत्त्वशब्दात् बुद्धिः इह उच्यते ॥७॥