अथ कृष्णयजुर्वेदीया काठकोपनिषत्
ये ये कामा दुर्लभा मर्त्यलोके सर्वान्कामांश्छन्दतः प्रार्थयस्व ।
इमा रामाः सरथाः सतूर्या न हीदृशा लम्भनीया मनुष्यैः ।
आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं मानुप्राक्षीः ॥ २५ ॥
ये ये कामाः प्रार्थनीयाः दुर्लभाश्च मर्त्यलोके, सर्वान् तान् कामान् छन्दतः इच्छातः प्रार्थयस्व । किञ्च, इमाः दिव्या अप्सरसः, रमयन्ति पुरुषान् इति रामाः, सह रथैः र्वर्तन्त इति सरथाः, सतूर्याः सवादित्राः, ताश्च न हि लम्भनीयाः प्रापणीयाः ईदृशाः एवंविधाः मनुष्यैः मर्त्यैः अस्मदादिप्रसादमन्तरेण । आभिः मत्प्रत्ताभिः मया प्रदत्ताभिः परिचारिकाभिः परिचारयस्व आत्मानम् , पादप्रक्षालनादिशुश्रूषां कारय आत्मनः इत्यर्थः । हे नचिकेतः, मरणं मरणसम्बद्धं प्रश्नं प्रेत्य अस्ति नास्तीति काकदन्तपरीक्षारूपं मा अनुप्राक्षीः मैवं प्रष्टुमर्हसि ॥२५॥

© 2023 KKP APP. All rights reserved | Design by SMDS