भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

अशरीरं शरीरेषु अनवस्थेष्ववस्थितम् ।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ २२ ॥

तद्विज्ञानाच्च शोकात्ययः इत्यपि दर्शयति — अशरीरः स्वेन रूपेण आकाशकल्पः आत्मा तम् अशरीरं शरीरेषु देव-पितृ-मनुष्यादिशरीरेषु अनवस्थेषु अवस्थितिरहितेषु अनित्येषु अवस्थितं नित्यम् अविकृतम् इत्येतत् । महान्तम् । महत्त्वस्य आपेक्षिकत्वशङ्कायामाह — विभुं व्यापिनम् आत्मानम्; आत्मग्रहणं स्वतः अनन्यत्वप्रदर्शनार्थम् । आत्मशब्दः प्रत्यगात्मविषय एव मुख्यः तम् ईदृशाम् आत्मानं मत्वा अयम् अहम् इति, धीरः धीमान् न शोचति । न हि एवंविधस्वात्मविदः शोकोपपत्तिः ॥२२॥

© 2023 KKP APP. All rights reserved | Design by SMDS