अथ कृष्णयजुर्वेदीया काठकोपनिषत्
अरण्योर्निर्हितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः ।
दिवे दिव ईड्यो जागृवद्भिः हविष्मद्भिर्मनुष्येभिरग्निः । एतद्वै तत् ॥८॥
किञ्च, यः अधियज्ञम् उत्तराधरारण्योर्निहितः स्थितः जातवेदाः अग्निः पुनः सर्वहविषां भोक्ता अध्यात्मं च योगिभिः, गर्भ इव गर्भिणीभिः अन्तर्वत्नीभिः अगर्हित-अन्नभोजनादिना यथा गर्भः सुभृतः सुष्ठु सम्यग्भृतो लोके, इत्थमेव ऋत्विग्भिः योगिभिश्च सुभृत इत्येतत् । किञ्च, दिवे दिवे अहन्यहनि ईड्यः स्तुत्यो वन्द्यश्च कर्मिभिः योगिभिश्च अध्वरे हृदये च जागृवद्भिः जागरणशीलैः अप्रमत्तैरित्येतत् । हविष्मद्भिः आज्यादिमद्भिः ध्यानभावनावद्भिश्च मनुष्येभिः मनुष्यैः अग्निः ; एतद्वै तत् तदेव प्रकृतं ब्रह्म ॥८॥

© 2023 KKP APP. All rights reserved | Design by SMDS