अथ कृष्णयजुर्वेदीया काठकोपनिषत्
अजीर्यताममृतानामुपेत्य जीर्यन्मर्त्यः क्वधःस्थः प्रजानन् ।
अभिध्यायन्वर्णरतिप्रमोदान् अतिदीर्घे जीविते को रमेत ॥ २८ ॥
यतश्च अजीर्यतां वयोहानिम् अप्राप्नुवताम् अमृतानां सकाशम् उपेत्य उपगम्य आत्मन उत्कृष्टं प्रयोजनान्तरं प्राप्तव्यं तेभ्यः प्रजानन् उपलभमानः स्वयं तु जीर्यन् मर्त्यः जरामरणवान् क्वधःस्थः कुः पृथिवी अधश्च असौ अन्तरिक्षादिलोकापेक्षया तस्यां तिष्ठतीति क्वधःस्थः सन् कथमेवम् अविवेकिभिः प्रार्थनीयं पुत्रवित्तादि अस्थिरं वृणीते । ‘क्व तदास्थः’ इति वा पाठान्तरम् । अस्मिन्पक्षे च एवम् अक्षरयोजना— तेषु पुत्रादिषु आस्था आस्थितिः तात्पर्येण वर्तनं यस्य स तदास्थः । ततः अधिकतरं पुरुषार्थं दुष्प्रापमपि अभिप्रेप्सुः क्व तदास्थो भवेत् ? न कश्चित् तदसारज्ञः तदर्थी स्यादित्यर्थः । सर्वो हि उपर्युपर्येव बुभूषति लोकः । तस्मात् न पुत्रवित्तादिलोभैः प्रलोभ्यः अहम् । किञ्च, अप्सरःप्रमुखान् वर्णरतिप्रमोदान् अनवस्थितरूपतया अभिध्यायन् निरूपयन् यथावत् अतिदीर्घे जीविते कः विवेकी रमेत ॥२८॥

© 2023 KKP APP. All rights reserved | Design by SMDS