अथ कृष्णयजुर्वेदीया काठकोपनिषत्
अतः कुतार्किक-पाषण्डबुद्धिविचालितान्तःकरणानां प्रमाणोपपन्नमपि आत्मैकत्वविज्ञानम् असकृदुच्यमानमपि अनृजुबुद्धीनां ब्राह्मणानां चेतसि नाधीयत इति तत्प्रतिपादने आदरवती पुनः पुनराह श्रुतिः —
अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥९॥
अग्निः यथा एक एव प्रकाशात्मा सन् भुवनम्, भवन्ति अस्मिन् बूतानीति भुवनम्, अयं लोकः, तमिमं प्रविष्टः अनुप्रविष्टः, रूपं रूपं प्रति, दार्वादिदाह्यभेदं प्रति इत्यर्थः, प्रतिरूपः तत्र तत्र प्रतिरूपवान् दाह्यभेदेन बहुविधो बभूव; एक एव तथा सर्वभूतान्तरात्मा रूपं रूपं सर्वेषां भूतानामभ्यन्तर आत्मा अतिसूक्ष्मत्वात् दार्वादिष्विव सर्वदेहं प्रति प्रविष्टत्वात् प्रतिरूपो बभूव बहिश्च स्वेन अविकृतेन रूपेण आकाशवत् ॥९॥

© 2023 KKP APP. All rights reserved | Design by SMDS