कुतश्च न प्रधानं सच्छब्दवाच्यम् ? —
ओं हेयत्वावचनाच्च ॥८॥
यदि अनात्मा एव प्रधानं सच्छब्दवाच्यम् , ‘स आत्मा तत्त्वमसि’ इति इह उपदिष्टं स्यात्; सः तदुपदेशश्रवणात् अनात्मज्ञतया तन्निष्ठो मा भूदिति, मुख्यम् आत्मानम् उपदिदिक्षु शास्त्रं तस्य हेयत्वं ब्रूयात् । यथा अरुन्धतीं दिदर्शयिषुः तत्समीपस्थां स्थूलां ताराम् अमुख्यां प्रथमम् अरुन्धतीति ग्राहयित्वा, तां प्रत्याख्याय, पश्चात् अरुन्धतीमेव ग्राहयति ; तद्वत् न अयम् आत्मा इति ब्रूयात् । न च एवमवोचत् । सन्मात्र-आत्मावगतिनिष्ठा एव हि षष्ठप्रपाठकपरिसमाप्तिः दृश्यते । चशब्दः प्रतिज्ञाविरोध-अभ्युच्चयप्रदर्शनार्थः । सत्यपि हेयत्ववचने प्रतिज्ञाविरोधः प्रसज्येत । कारणविज्ञानाद्धि सर्वं विज्ञातमिति प्रतिज्ञातम् — ‘उत तमादेशमप्राक्ष्यः येन अश्रुतं श्रुतं भवति अमतं मतम् अविज्ञातं विज्ञातमिति ; कथं नु भगवः स आदेशो भवतीति’ (छा. उ. ६ । १ । ३) ; ‘यथा सोम्य एकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्यात् वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६ । १ । ४) ‘एवं सोम्य स आदेशो भवति’ (छा. उ. ६ । १ । ६) इति वाक्योपक्रमे श्रवणात् । न च सच्छब्दवाच्ये प्रधाने भोग्यवर्गकारणे हेयत्वेन अहेयत्वेन वा विज्ञाते भोक्तृवर्गो विज्ञातो भवति, अप्रधानविकारत्वात् भोक्तृवर्गस्य । तस्मात् न प्रधानं सच्छब्दवाच्यम् ॥८॥

© 2023 KKP APP. All rights reserved | Design by SMDS