भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

ऋग्वेदीया ऐतरेयोपनिषत्

एष ब्रह्मैष इन्द्र एष प्रजापतिः एते सर्वे देवा इमानि च पञ्च महाभूतानि पृथिवी वायुराकाश आपो ज्योतींषीति एतानीमानि च क्षुद्रमिश्राणीव । बीजानि इतराणि च इतराणि च अण्डजानि च जारुजानि च स्वेदजानि च उद्भिज्जानि च अश्वा गावः पुरुषा हस्तिनो यत्किञ्चेदं प्राणि जङ्गमं च पतत्रि च यच्च स्थावरम् । सर्वं तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म ॥३॥

स एषः प्रज्ञानरूप आत्मा ब्रह्म अपरं सर्वशरीरस्थः प्राणः प्रज्ञात्मा अन्तःकरणोपाधिषु अनुप्रविष्टो जलभेदगतसूर्यप्रतिबिम्बवत् हिरण्यगर्भः प्राणः प्रज्ञात्मा । एष एव इन्द्रः गुणात् , देवराजो वा । एष प्रजापतिः यः प्रथमजः शरीरी ; यतो मुखादिनिर्भेदद्वारेण अग्न्यादयो लोकपाला जाताः, स प्रजापतिः एष एव । येऽपि एते अग्न्यादयः सर्वे देवा एष एव । इमानि च सर्वशरीरोपादानभूतानि पञ्च पृथिव्यादीनि महाभूतानि अन्न-अन्नादत्वलक्षणानि एतानि । किञ्च, इमानि च क्षुद्रमिश्राणि क्षुद्रैः अल्पकैः मिश्राणि, इवशब्दः अनर्थकः, सर्पादीनि । बीजानि कारणानि इतराणि च इतराणि च द्वैराश्येन निर्दिश्यमानानि । कानि तानि ? उच्यन्ते — अण्डजानि पक्ष्यादीनि, जारुजानि जरायुजानि मनुष्यादीनि, स्वेदजानि यूकादीनि, उद्भिज्जानि च वृक्षादीनि । अश्वाः गावः पुरुषाः हस्तिनः अन्यच्च यत्किञ्चेदं प्राणि । किं तत् ? जङ्गमं यच्चलति पद्भ्यां गच्छति ; यच्च पतत्रि आकाशेन पतनशीलम् ; यच्च स्थावरम् अचलम् ; सर्वं तत् अशेषतः प्रज्ञानेत्रम् , प्रज्ञप्तिः प्रज्ञा, तच्च ब्रह्मैव, नीयते अनेनेति नेत्रम् , प्रज्ञा नेत्रं यस्य तदिदं प्रज्ञानेत्रम् ; प्रज्ञाने ब्रह्मणि उत्पत्तिस्थितिलयकालेषु प्रतिष्ठितम् , प्रज्ञाश्रयमित्यर्थः । प्रज्ञानेत्रो लोकः पूर्ववत् ; प्रज्ञाचक्षुर्वा सर्व एव लोकः । प्रज्ञा प्रतिष्ठा सर्वस्य जगतः । तस्मात् प्रज्ञानं ब्रह्म ॥

तदेतत् प्रत्यस्तमितसर्वोपाधिविशेषं सत् निरञ्जनं निर्मलं निष्क्रियं शान्तम् एकम् अद्वयं ‘नेति नेति’ (बृ. उ. ३ । ९ । २६) इति सर्वविशेष-अपोहसंवेद्यं सर्वशब्दप्रत्यय-अगोचरं तदत्यन्तविशुद्धप्रज्ञोपाधिसम्बन्धेन सर्वज्ञमीश्वरं सर्वसाधारणाव्याकृतजगद्बीजप्रवर्तकं नियन्तृत्वात् अन्तर्यामिसंज्ञं भवति । तदेव व्याकृतजगद्बीजभूतबुद्ध्यात्माभिमानलक्षणं हिरण्यगर्भसंज्ञं भवति । तदेव अन्तरण्डोद्भूतप्रथमशरीरोपाधिमत् विराट् प्रजापतिसंज्ञं भवति । तदुद्भूत-अग्न्याद्युपाधिमत् देवतासंज्ञं भवति । तथा विशेषशरीरोपाधिष्वपि ब्रह्मादिस्तम्बपर्यन्तेषु तत्तन्नामरूपलाभो ब्रह्मणः । तदेव एकं सर्वोपाधिभेदभिन्नं सर्वैः प्राणिभिः तार्किकैश्च सर्वप्रकारेण ज्ञायते विकल्प्यते च अनेकधा । ‘एतम् एके वदन्त्यग्निं मनुमन्ये प्रजापतिम् । इन्द्रमेकेऽपरे प्राणम् अपरे ब्रह्म शाश्वतम्’ (मनु. १२ । १२३) इत्याद्या स्मृतिः ॥३॥

© 2023 KKP APP. All rights reserved | Design by SMDS