भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

ऋग्वेदीया ऐतरेयोपनिषत्

तस्मादिदन्द्रो नाम इदन्द्रो ह वै नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेण ।
परोक्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः ॥१४॥

यस्मात् ’इदम्’ इत्येव यत्साक्षादपरोक्षाद्ब्रह्म सर्वान्तरमपश्यत् न परोक्षेण, तस्मात् इदं पश्यतीति इदन्द्रो नाम परमात्मा । इदन्द्रो ह वै नाम प्रसिद्धो लोके ईश्वरः । तम् एवम् इदन्द्रं सन्तम् इन्द्र इति परोक्षेण परोक्षाभिधानेन आचक्षते ब्रह्मविदः संव्यवहारार्थं पूज्यतमत्वात् प्रत्यक्षनाम-ग्रहणभयात् । तथा हि परोक्षप्रियाः परोक्षनामग्रहणप्रिया इव एव हि यस्मात् देवाः । किमुत सर्वदेवानामपि देवो महेश्वरः । द्विर्वचनं प्रकृताध्यायपरिसमाप्त्यर्थम् ॥

अस्मिन्नध्याये एष वाक्यार्थः — जगदुत्पत्तिस्थितिप्रलयकृत् असंसारी सर्वज्ञः सर्वशक्तिः सर्ववित् सर्वमिदं जगत् स्वतोऽन्यद्वस्त्वन्तरम् अनुपादायैव आकाशादिक्रमेण सृष्ट्वा स्वात्मप्रबोधनार्थं सर्वाणि च प्राणादिमत् शरीराणि स्वयं प्रविवेश ; प्रविश्य च स्वमात्मानं यथाभूतमिदं ब्रह्मास्मीति साक्षात्प्रत्यबुध्यत ; तस्मात् स एव सर्वशरीरेषु एक एव आत्मा, नान्य इति । अन्योऽपि ‘स म आत्मा ब्रह्मास्मीत्येवं विद्यात्’ इति ‘आत्मा वा इदमेक एवाग्र आसीत्’ (ऐ. उ. १ । १ । १) ‘ब्रह्म ततमम्’ (ऐ. उ. १ । ३ । १३) इति च उक्तम् । अन्यत्र च ॥

सर्वगतस्य सर्वात्मनो वालाग्रमात्रमपि अप्रविष्टं नास्तीति कथं सीमानं विदार्य प्रापद्यत पिपीलिका इव सुषिरम् ? ननु अत्यल्पमिदं चोद्यम् । बहु चात्र चोदयितव्यम् । अकरणः सन् ईक्षत । अनुपादाय किञ्चिल्लोकानसृजत । अद्भ्यः पुरुषं समुद्धृत्य अमूर्छयत् । तस्याभिध्यानात् मुखादि निर्भिन्नं मुखादिभ्यश्च अग्न्यादयो लोकपालाः । तेषां चा् अशनायादिसंयोजनं तदायतनप्रार्थनं तदर्थं गवादिप्रदर्शनं तेषां च यथायतनप्रवेशनं सृष्टस्यान्नस्य पलायनं वागादिभिस्तज्जिघृक्षा इति । एतत्सर्वं सीमाविदारणप्रवेशसममेव ॥

अस्तु तर्हि सर्वमेवेदमनुपपन्नम् । न, अत्र अत्माववोधमात्रस्य विवक्षितत्वात् सर्वोऽयमर्थवाद इत्यदोषः । मायाविवद्वा ; महामायावी देवः सर्वज्ञः सर्वशक्तिः सर्वमेतच्चकार सुखावबोधप्रतिपत्त्यर्थं लोकवत् आख्यायिकादिप्रपञ्च इति युक्ततरः पक्षः । न हि सृष्ट्याख्यायिकादि-परिज्ञानात् किञ्चित्फलमिष्यते । ऐकात्म्यस्वरूपपरिज्ञानात्तु अमृतत्वं फलं सर्वोपनिषत्प्रसिद्धम् । स्मृतिषु च गीताद्यासु ‘समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्’ (भ. गी. १३ । २७) इत्यादिना ॥

ननु त्रय आत्मानो भोक्ता कर्ता संसारी जीव एकः सर्वलोकशास्त्रप्रसिद्धः । अनेकप्राणिकर्मफलोपभोगयोग्य-अनेकाधिष्ठानवत् लोकदेहनिर्माणेन लिङ्गेन यथाशास्त्रप्रदर्शितेन पुरप्रासादादिनिर्माणलिङ्गेन तद्विषयकौशलज्ञानवान् तत्कर्ता तक्षादिरिव ईश्वरः सर्वज्ञो जगतः कर्ता द्वितीयः चेतन आत्मा अवगम्यते । ‘यतो वाचो निवर्तन्ते’ (तै. उ. २ । ४ । १) ‘नेति नेति’ (बृ. उ. ३ । ९ । २६) इत्यादिशास्त्रप्रसिद्ध औपनिषदः पुरुषस्तृतीयः । एवमेते त्रय आत्मानोऽन्योन्यविलक्षणाः । तत्र कथमेक एवात्मा अद्वितीयः असंसारीति ज्ञातुं शक्यते ?

तत्र जीव एव तावत्कथं ज्ञायते ? ननु एवं ज्ञायते श्रोता मन्ता द्रष्टा आदेष्टाघोष्टा विज्ञाता प्रज्ञातेति । ननु विप्रतिषिद्धं ज्ञायते यः श्रवणादिकर्तृत्वेन अमतो मन्ता अविज्ञातो विज्ञाता इति च । तथा ‘न मतेर्मन्तारं मन्वीथा न विज्ञातेर्विज्ञातारं विजानीयाः’ (बृ. उ. ३ । ४ । २) इत्यादि च । सत्यं विप्रतिषिद्धम् , यदि प्रत्यक्षेण ज्ञायेत सुखादिवत् । प्रत्यक्षज्ञानं च निवार्यते ‘न मतेर्मन्तारम्’ (बृ. उ. ३ । ४ । २) इत्यादिना । ज्ञायते तु श्रवणादिलिङ्गेन ; तत्र कुतो विप्रतिषेधः ? ननु श्रवणादिलिङ्गेनापि कथं ज्ञायते, यावता यदा शृणोति आत्मा श्रोतव्यं शब्दम् , तदा तस्य श्रवणक्रियया एव वर्तमानत्वात् मननविज्ञानक्रिये न सम्भवत आत्मनि परत्र वा । तथा अन्यत्रापि मननादिक्रियासु । श्रवणादिक्रियाश्च स्वविषयेष्वेव । न हि मन्तव्यादन्यत्र मन्तुः मननक्रिया सम्भवति ॥

ननु मनसः सर्वमेव मन्तव्यम् । सत्यमेवम् ; तथापि सर्वमपि मन्तव्यं मन्तारमन्तरेण न मन्तुं शक्यम् । यद्येवं किं स्यात् ? इदमत्र स्यात् — सर्वस्य योऽयं मन्ता, स मन्तैव इति न स मन्तव्यः स्यात् । न च द्वितीयो मन्तुर्मन्ता अस्ति । यदा स आत्मना एव मन्तव्यः, तदा येन च मन्तव्य आत्मा आत्मना, यश्च मन्तव्य आत्मा, तौ द्वौ प्रसज्येयाताम् । एक एव आत्मा द्विधा मन्तृमन्तव्यत्वेन द्विशकलीभवेत् वंशादिवत् , उभयथापि अनुपपत्तिरेव । यथा प्रदीपयोः प्रकाश्यप्रकाशकत्वानुपपत्तिः, समत्वात् , तद्वत् । न च मन्तुर्मन्तव्ये मननव्यापारशून्यः काले अस्ति आत्ममननाय । यदापि लिङ्गेन आत्मानं मनुते मन्ता, तदापि पूर्ववदेव लिङ्गेन मन्तव्य आत्मा, यश्च तस्य मन्ता, तौ द्वौ प्रसज्येयाताम् ; एक एव वा द्विधेति पूर्वोक्तो दोषः ॥

न प्रत्यक्षेण, नापि अनुमानेन ज्ञायते चेत् , कथमुच्यते ‘स म आत्मेति विद्यात्’ (कौ. उ. ३ । ९) इति, कथं वा श्रोता मन्ता इत्यादि ? ननु श्रोतृत्वादिधर्मवान् आत्मा, अश्रोतृत्वादि च प्रसिद्धम् आत्मनः ; किमत्र विषमं पश्यसि ? यद्यपि तव न विषमम् ; तथापि मम तु विषमं प्रतिभाति । कथम् ? यदासौ श्रोता, तदा न मन्ता ; यदा मन्ता, तदा न श्रोता । तत्रैवं सति, पक्षे श्रोता मन्ता, पक्षे न श्रोता नापि मन्ता । तथा अन्यत्रापि च । यदा एवम् , तदा श्रोतृत्वादिधर्मवान् आत्मा अश्रोतृत्वादिधर्मवान् वा इति संशयस्थाने कथं तव न वैषम्यम् ? यदा देवदत्तो गच्छति, तदा न स्थाता, गन्तैव । यदा तिष्ठति, न गन्ता, स्थातैव ; तदास्य पक्ष एव गन्तृत्वं स्थातृत्वं च, न नित्यं गन्तृत्वं स्थातृत्वं वा, तद्वत् ||

तथैवात्र काणादादयः पश्यन्ति । पक्षप्राप्तेनैव श्रोतृत्वादिना आत्मा उच्यते श्रोता मन्ता इत्यादिवचनात् । संयोगजत्वम् अयौगपद्यं च ज्ञानस्य हि आचक्षते । दर्शयन्ति च ’अन्यत्रमना अभूवं नादर्शम्’ इत्यादि युगपत् ज्ञानानुत्पत्तिः मनसो लिङ्गमिति च न्याय्यम् ॥

भवत्वेवं किं तव नष्टं यद्येवं स्यात् ? अस्त्वेवं तव इष्टं चेत् ; श्रुत्यर्थस्तु न सम्भवति । किं न श्रोता मन्ता इत्यादिश्रुत्यर्थः ? न, न श्रोता न मन्ता इत्यादिवचनात् । ननु पाक्षिकत्वेन प्रत्युक्तं त्वया ; न, नित्यमेव श्रोतृत्वाद्यभ्युपगमात् , ‘न हि श्रोतुः श्रुतेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । २७) इत्यादिश्रुतेः ॥

एवं तर्हि नित्यमेव श्रोतृत्वाद्यभ्युपगमे, प्रत्यक्षविरुद्धा युगपज्ज्ञानोत्पत्तिः अज्ञानाभावश्च आत्मनः कल्पितः स्यात् । तच्चअ अनिष्टमिति । न उभयदोषोपपत्तिः, आत्मनः श्रुत्यादिश्रोतृत्वादिधर्मवत्त्वश्रुतेः । अनित्यानां मूर्तानां च चक्षुरादीनां दृष्ट्याद्यनित्यमेव संयोगवियोगधर्मिणाम् । यथा अग्नेर्ज्वलनं तृणादिसंयोगजत्वात् , तद्वत् । न तु नित्यस्य अमूर्तस्य असंयोगविभागधर्मिणः संयोगजदृष्ट्याद्यनित्यधर्मवत्त्वं सम्भवति । तथा च श्रुतिः ‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । २३) इत्याद्या ॥

एवं तर्हि द्वे दृष्टी चक्षुषः अनित्या दृष्टिः, नित्या च आत्मनः । तथा च द्वे श्रुती श्रोत्रस्य अनित्या, नित्या च आत्मस्वरूपस्य । तथा द्वे मती विज्ञाती बाह्याबाह्ये । एवं ह्येव च इयं श्रुतिरुपपन्ना भवति — ‘दृष्टेर्द्रष्टा श्रुतेः श्रोता’ इत्याद्या । लोकेऽपि प्रसिद्धं चक्षुषः तिमिरागमापाययोः नष्टा दृष्टिः जाता दृष्टिः इति चक्षुर्दृष्टेः अनित्यत्वम् । तथा च श्रुतिमत्यादीनाम् आत्मदृष्ट्यादीनां च नित्यत्वं प्रसिद्धमेव लोके । वदति हि उद्धृतचक्षुः स्वप्ने अद्य मया भ्राता दृष्ट इति । तथा अवगतबाधिर्यः स्वप्ने श्रुतो मन्त्रोऽद्य इत्यादि । यदि चक्षुःसंयोगजा एव आत्मनो नित्या दृष्टिः तन्नाशे नश्येत् , तदा उद्धृतचक्षुः स्वप्ने नीलपीतादि न पश्येत् । ‘न हि द्रष्टुर्दृष्टेः’ (बृ. उ. ४ । ३ । २३) इत्याद्या च श्रुतिः अनुपपन्ना स्यात् । ‘तच्चक्षुः पुरुषे येन स्वप्नं पश्यति’ इत्याद्या च श्रुतिः ॥

नित्या आत्मनो दृष्टिः बाह्यानित्यदृष्टेः ग्राहिका । बाह्यदृष्टेश्च उपजनापायाद्यनित्यधर्मवत्त्वात् ग्राहिकाया आत्मदृष्टेः तद्वदवभासत्वम् अनित्यत्वादि भ्रान्तिनिमित्तं लोकस्येति युक्तम् । यथा भ्रमणादिधर्मवत् अलातादिवस्तुविषयदृष्टिरपि भ्रमतीव, तद्वत् । तथा च श्रुतिः ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इति । तस्मात् आत्मदृष्टेर्नित्यत्वात् न यौगपद्यम् अयौगपद्यं वा अस्ति ॥

बाह्यानित्यदृष्ट्युपाधिवशात्तु लोकस्य तार्किकाणां च आगमसम्प्रदायवर्जितत्वात् अनित्या आत्मनो दृष्टिरिति भ्रान्तिरुपपन्ना एव । जीवेश्वरपरमात्मभेदकल्पना च एतन्निमित्ता एव । तथा अस्ति, नास्ति, इत्याद्याश्च यावन्तो वाङ्मनसयोर्भेदा यत्रैकं भवन्ति, तद्विषयाया नित्याया दृष्टेः निर्विशेषायाः । अस्ति नास्ति, एकं नाना, गुणवदगुणम् , जानाति न जानाति, क्रियावदक्रियम् , फलवदफलम् , सबीजं निर्बीजम् , सुखं दुःखम् , मध्यममध्यम् , शून्यमशून्यम् , परोऽहम् अन्यः, इति वा सर्ववाक्प्रत्यय-अगोचरे स्वरूपे यो विकल्पयितुमिच्छति, स नूनं खमपि चर्मवत् वेष्टयितुमिच्छति, सोपानमिव च पद्भ्यामारोढुम् ; जले खे च मीनानां वयसां च पदं दिदृक्षते ; ‘नेति नेति’ (बृ. उ. ३ । ९ । २६) ‘यतो वाचो निवर्तन्ते’ (तै. उ. २ । ४ । १) इत्यादिश्रुतिभ्यः, ‘को अद्धा वेद’ (ऋ. सं. १० । १२९ । ६) इत्यादिमन्त्रवर्णात् ॥

कथं तर्हि तस्य स म आत्मेति वेदनम् ; ब्रूहि केन प्रकारेण तमहं स म आत्मेति विद्याम् । अत्राख्यायिकामाचक्षते — कश्चित्किल मनुष्यो मुग्धः कैश्चिदुक्तः कस्मिंश्चिदपराधे सति ’धिक् त्वाम” ’नासि मनुष्यः इति । स मुग्धतया आत्मनो मनुष्यत्वं प्रत्याययितुं कञ्चिदुपेत्य आह — ब्रवीतु भवान् कोऽहमस्मीति । स तस्य मुग्धतां ज्ञात्वा आह — क्रमेण बोधयिष्यामीति । स्थावराद्यात्मभावमपोह्य न त्वममनुष्य इत्युक्त्वा उपरराम । स तं मुग्धः प्रत्याह — भवान् मां बोधयितुं प्रवृत्तः तुष्णीं बभूव, किं न बोधयतीति । तादृगेव तद्भवतो वचनम् । नासि अमनुष्य इत्युक्तेऽपि मनुष्यत्वम् आत्मनो न प्रतिपद्यते यः, स कथं मनुष्योऽसि इत्युक्तोऽपि मनुष्यत्वम् आत्मनः प्रतिपद्येत ?

तस्माद्यथाशास्त्रोपदेश एवात्मावबोधविधिः, नान्यः । न ह्यग्नेर्दाह्यं तृणादि अन्येन केनचिद्दग्धुं शक्यम् । अत एव शास्त्रम् आत्मस्वरूपं बोधयितुं प्रवृत्तं सत् अमनुष्यत्वप्रतिषेधेनेव ‘नेति नेति’ (बृ. उ. ३ । ९ । २६) इत्युक्त्वा उपरराम । तथा ‘अनन्तरमबाह्यम्’ (बृ. उ. २ । ५ । १९)(बृ. उ. ३ । ८ । ८) ‘अयमात्मा ब्रह्म सर्वानुभूः’ (बृ. उ. २ । ५ । १९) इत्यनुशासनम् ; ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. २ । ४ । १४)(बृ. उ. ४ । ५ । १५) इत्येवमाद्यपि च ॥

इति श्रीमच्छङ्करभगवतः कृतौ ऐतरेयोपनिषद्भाष्ये
प्रथमाध्याये तृतीयः खण्डः
इति प्रथमोऽध्यायः

© 2023 KKP APP. All rights reserved | Design by SMDS