ऋग्वेदीया ऐतरेयोपनिषत्
तदेनत् सृष्टं पराङत्यजिघांसत् तद्वाचा अजिघृक्षत् तन्नाशक्नोद्वाचा ग्रहीतुम् । स यद्धैनद्वाचा अग्रहैष्यत् अभिव्याहृत्य हैवान्नमत्रप्स्यत् ॥३॥
तत्प्राणेनाजिघृक्षत् तन्नाशक्नोत्प्राणेन ग्रहीतुम् । स यद्धैनत्प्राणेन अग्रहैष्यत् अभिप्राण्य हैवान्नमत्रप्स्यत् ॥४॥
तच्चक्षुषा अजिघृक्षत् तन्नाशक्नोच्चक्षुषा ग्रहीतुम् । स यद्धैनच्चक्षुषा अग्रहैष्यत् दृष्ट्वा हैवान्नमत्रप्स्यत् ॥५॥
तच्छ्रोत्रेणाजिघृक्षत् तन्नाशक्नोच्छ्रोत्रेण ग्रहीतुम् । स यद्धैनच्छ्रोत्रेण अग्रहैष्यत्
शृत्वा हैवान्नमत्रप्स्यत् ॥६॥
तत्त्वचा अजिघृक्षत् तन्नाशक्नोत्त्वचा ग्रहीतुम् । स यद्धैनत्त्वचा अग्रहैष्यत्
स्पृष्ट्वा हैवान्नमत्रप्स्यत् ॥७॥
तन्मनसा अजिघृक्षत् तन्नाशक्नोन्मनसा ग्रहीतुम् । स यद्धैनन्मनसा अग्रहैष्यत् ध्यात्वा हैवान्नमत्रप्स्यत् ॥८॥
तच्छिश्नेनाजिघृक्षत् तन्नाशक्नोच्छिश्नेन ग्रहीतुम् । स यद्धैनच्छिश्नेन अग्रहैष्यत् विसृज्य हैवान्नमत्रप्स्यत् ॥९॥
तदेनत् अन्नं लोकलोकपालानामर्थे अभिमुखे सृष्टं सत् , यथा मूषकादिर्मार्जारादिगोचरे सन् , मम मृत्युः अन्नाद इति मत्वा परागञ्चतीति पराङ् पराक्सत् अत्तॄन् अतीत्य अजिघांसत् अतिगन्तुमैच्छत् , पलायितुं प्रारभत इत्यर्थः । तम् अन्नाभिप्रायं मत्वा स लोक-लोकपालसङ्घातकार्यकरणलक्षणः पिण्डः प्रथमजत्वात् अन्यांश्च अन्नादान् अपश्यन् , तत् अन्नं वाचा वदनव्यापारेण अजिघृक्षत् ग्रहीतुमैच्छत् । तत् अन्नं नाशक्नोत् न समर्थोऽभवत् वाचा वदनक्रियया ग्रहीतुम् उपादातुम् । सः प्रथमजः शरीरी यत् यदि ह एनत् वाचा अग्रहैष्यत् गृहीतवान् स्यात् अन्नम् , सर्वोऽपि लोकः तत्कार्यभूतत्वात् अभिव्याहृत्य हैव अन्नम् अत्रप्स्यत् तृप्तोऽभविष्यत् । न च एतदस्ति । अतो न अशक्नोत् वाचा ग्रहीतुम् इत्यवगच्छामः पूर्वजोऽपि ॥३-९॥

© 2023 KKP APP. All rights reserved | Design by SMDS