भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

ऋग्वेदीया ऐतरेयोपनिषत्

समानमुत्तरम् । तत्प्राणेन तच्चक्षुषा तच्छ्रोत्रेण तत्त्वचा तन्मनसा तच्छिश्नेन तेन तेन करणव्यापारेण अन्नं ग्रहीतुम् अशक्नुवन् पश्चात्-

तदपानेनाजिघृक्षत् तदावयत् । सैषोऽन्नस्य ग्रहो
यद्वायुः अन्नायुर्वा एष यद्वायुः ॥१०॥

अपानेन वायुना मुखच्छिद्रेण तत् अन्नम् अजिघृक्षत् , तदावयत् तदन्नम् एवं जग्राह अशितवान् । तेन स एषः अपानवायुः अन्नस्य ग्रहः अन्नग्राहक इत्येतत् । यद्वायुः यो वायुः अन्नायुः अन्नबन्धनः अन्नजीवनो वै प्रसिद्धः, स एष यो वायुः ॥१०॥

© 2023 KKP APP. All rights reserved | Design by SMDS