भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

ऋग्वेदीया ऐतरेयोपनिषत्

स जातो भूतान्यभिव्यैख्यत् किमिह अन्यं वावदिषदिति । स एतमेव पुरुषं ब्रह्म ततममपश्यत् इदमदर्शमिती३ ॥१३॥

स जातः शरीरे प्रविष्टो जीवात्मना भूतानि अभिव्यैख्यत् व्याकरोत् । स कदाचित् परमकारुणिकेन आचार्येण आत्मज्ञानप्रबोधकृच्छब्दकार्यां वेदान्तमहाभेर्यां तत्कर्णमूले ताड्यमानायाम् , एतमेव सृष्ट्यादिकर्तृत्वेन प्रकृतं पुरुषं पुरि शयानमात्मानं ब्रह्म बृहत् ततमं तकारेणैकेन लुप्तेन तततमं व्याप्ततमं परिपूर्णम् आकाशवत् प्रत्यबुध्यत अपश्यत् । कथम् ? इदं ब्रह्म मम आत्मनः स्वरूपमदर्शं दृष्टवानस्मि । अहो इति । विचारणार्था प्लुतिः पूर्वम् ॥१३॥

© 2023 KKP APP. All rights reserved | Design by SMDS