भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

ऋग्वेदीया ऐतरेयोपनिषत्

अथ तृतीयः खण्डः

स ईक्षत इमे नु लोकाश्च लोकपालाश्च अन्नमेभ्यः सृजा इति ॥१॥

सः एवम् ईश्वरः ईक्षत । कथम् ? इमे नु लोकाश्च लोकपालाश्च मया सृष्टाः, अशनायापिपासाभ्यां च संयोजिताः । अतो नैषां स्थितिः अन्नमन्तरेण । तस्मात् अन्नम् एभ्यः लोकपालेभ्यः सृजै सृजे इति । एवं हि लोके ईश्वराणामनुग्रहे निग्रहे च स्वातन्त्र्यं दृष्टं स्वेषु । तद्वत् महेश्वरस्यापि सर्वेश्वरत्वात् सर्वान्प्रति निग्रहे अनुग्रहे च स्वातन्त्र्यमेव ॥१॥

© 2023 KKP APP. All rights reserved | Design by SMDS